२.२०.३

तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदा ।
बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥

अन्वयः

तदा then, दुष्प्रतिवीक्षम् frightening to look at, भ्रुकुटी सहितम् with frown, तत् that, तस्य his, मुखम् face, क्रुद्धस्य of angry ones, सिंहस्य of a lion, सदृशम् similar, बभौ shone.

Summary

With his frown, his face looked frightening like the face of a lion provoked.

पदच्छेदः

तस्यतद् (६.१)
दुष्प्रतिवीक्ष्यंदुष्प्रतिवीक्ष्य (१.१)
तद्तद् (१.१)
भ्रुकुटीसहितंभ्रुकुटि–सहित (१.१)
तदातदा (अव्ययः)
बभौबभौ (√भा लिट् प्र.पु. एक.)
क्रुद्धस्यक्रुद्ध (√क्रुध् + क्त, ६.१)
सिंहस्यसिंह (६.१)
मुखस्यमुख (६.१)
सदृशंसदृश (१.१)
मुखम्मुख (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य दुष्प्रति वी क्ष्यं
द्भ्रुकु टीहि तं दा
भौ क्रु द्धस्य सिंस्य
मुस्यदृ शंमु खम्