२.२१.५

त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।
प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥

पदच्छेदः

त्वयात्वद् (३.१)
विहीनाम्विहीन (√वि-हा + क्त, २.१)
इहइह (अव्ययः)
मांमद् (२.१)
शोकाग्निर्शोक–अग्नि (१.१)
अतुलोअतुल (१.१)
महान्महत् (१.१)
प्रधक्ष्यतिप्रधक्ष्यति (√प्र-दह् लृट् प्र.पु. एक.)
यथायथा (अव्ययः)
कक्षंकक्ष (२.१)
चित्रभानुर्चित्रभानु (१.१)
हिमात्ययेहिम–अत्यय (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्व यावि ही नामि मां
शो काग्नितु लो हान्
प्रक्ष्यति था क्षं
चित्र भा नुर्हि मात्य ये