२.२२.१४

यन्मङ्गलं सुपर्णस्य विनताकल्पयत्पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥

अन्वयः

पुरा formely, अमृतम् nectar, प्रार्थयानस्य while seeking, सुपर्णस्य for Garuda, विनता Vinata, यत् मङ्गलम् which blessings, अकल्पयत् created, तत् मङ्गलम् that auspiciousness, ते भवतु happen to you.

M N Dutt

May that blessing attend you, which was invoked in olden times by Vinatā, for that king of birds Garuda, praying for nectar.

Summary

May you be conferred with the same blessings which Vinata bestowed on Garuda at the time of bringing nectar

पदच्छेदः

यन्यद् (१.१)
मङ्गलंमङ्गल (१.१)
सुपर्णस्यसुपर्ण (६.१)
विनताकल्पयत्विनता (१.१)–अकल्पयत् (√कल्पय् लङ् प्र.पु. एक.)
पुरापुरा (अव्ययः)
अमृतंअमृत (२.१)
प्रार्थयानस्यप्रार्थयान (६.१)
तत्तद् (१.१)
तेत्वद् (४.१)
भवतुभवतु (√भू लोट् प्र.पु. एक.)
मङ्गलम्मङ्गल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्मङ्ग लंसु र्णस्य
वि ताल्पत्पु रा
मृ तं प्रार्थ यास्य
त्तेतुङ्ग लम्