२.२३.२१

तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते ।
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥

अन्वयः

अद्य now, नृपोद्यते the king was getting ready, मम my, अस्मिन् अभिषेके for this consecration, सज्जे in the preparation, तया by her, सः that, समयः promise, प्रचोदितः was urged, धर्मेण in the name of righteousness, प्रतिनिर्जितः has been conquered.

M N Dutt

When every thing was made ready by my father for my installation, Kaikeyi reminded him of his promise and gained over him for this righteousness.

Summary

When the king was preparing for my consecration, she reminded him of the promise and in the name of righteousness he has been cornered.

पदच्छेदः

तयाद्यतद् (३.१)–अद्य (अव्ययः)
मममद् (६.१)
सज्जेसज्ज (७.१)
ऽस्मिन्न्इदम् (७.१)
अभिषेकेअभिषेक (७.१)
नृपोद्यतेनृप–उद्यत (√उत्-यम् + क्त, ७.१)
प्रचोदितःप्रचोदित (√प्र-चोदय् + क्त, १.१)
तद् (१.१)
समयोसमय (१.१)
धर्मेणधर्म (३.१)
प्रतिनिर्जितःप्रतिनिर्जित (√प्रतिनिः-जि + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

याद्य ज्जेऽस्मि
न्नभि षे केनृ पोद्य ते
प्र चोदि तः यो
र्मेप्रति निर्जि तः