२.२३.२७

काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।
वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥

अन्वयः

काल्यम् fimely, उत्थाय rising, यथाविधि according to the prescribed rituals, देवानाम् of the gods, पूजाम् कृत्वा having worshipped, मम पिता my father, नरेश्वरः lord of the people, दशरथः to Dasaratha, वन्दितव्यः is worthy of homage (by you).

M N Dutt

Rising from the bed early in the morning, adore the deities, every day, and then bow down to the feet of my father Dasaratha, the lord of men.

Summary

You must rise in time and with the (household) gods duly worshipped, pay obeisance to my father, king Dasaratha.

पदच्छेदः

काल्यम्काल्यम् (अव्ययः)
उत्थायउत्थाय (√उत्-स्था + ल्यप्)
देवानांदेव (६.३)
कृत्वाकृत्वा (√कृ + क्त्वा)
पूजांपूजा (२.१)
यथाविधियथाविधि (अव्ययः)
वन्दितव्योवन्दितव्य (√वन्द् + कृत्, १.१)
दशरथःदशरथ (१.१)
पितापितृ (१.१)
मममद् (६.१)
नरेश्वरःनर–ईश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

काल्य मु त्था दे वा नां
कृ त्वा पू जां थाविधि
न्दि व्यो थः
पि ता रेश्व रः