२.२४.१२

फलमूलाशना नित्यं भविष्यामि न संशयः ।
न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥

अन्वयः

नित्यम् always, फलमूलाशना living on fruits and roots, भविष्यामि I will become, संशयः न no doubt, त्वया सह with you, निवसन्ती while living, ते to you, दुःखम् hardship, न करिष्यामि will not do.

M N Dutt

Undoubtedly I shall always live upon roots and fruits, living with you always I shall not bring about your affliction.

Summary

Do not doubt that I shall not be able to live on fruits and roots or that I will create difficulty for you while living with you.

पदच्छेदः

फलमूलाशनाफल–मूल–अशन (१.१)
नित्यंनित्यम् (अव्ययः)
भविष्यामिभविष्यामि (√भू लृट् उ.पु. )
(अव्ययः)
संशयःसंशय (१.१)
(अव्ययः)
तेत्वद् (४.१)
दुःखंदुःख (२.१)
करिष्यामिकरिष्यामि (√कृ लृट् उ.पु. )
निवसन्तीनिवसत् (√नि-वस् + शतृ, १.१)
सहसह (अव्ययः)
त्वयात्वद् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मू ला ना नि त्यं
वि ष्यामि सं यः
ते दुः खं रि ष्यामि
नि न्तीत्व या