२.२७.३

किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः ।
राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥

अन्वयः

राम O Rama, पुरुषविग्रहम् in the form of a man, स्त्रियम् a woman, त्वा you, जामातरम् as soninlaw, प्राप्य having obtained, मिथिलाधिपः king of Mithila, वैदेहः lord of Videha, मे पिता my father, किम् what, अमन्यत thought of.

M N Dutt

What thought of you, O Rāma, my father, the king of Mithilā, accepting you as his son-in-law, who was a man if form but (in deeds)a woman?

Summary

O Rama while accepting you as soninlaw did my father, king of Mithila and lord of Videha ever think that you are a woman in the guise of a man?

पदच्छेदः

किं (२.१)
त्वामन्यतत्वद् (२.१)–अमन्यत (√मन् लङ् प्र.पु. एक.)
वैदेहःवैदेह (१.१)
पितापितृ (१.१)
मेमद् (६.१)
मिथिलाधिपःमिथिला–अधिप (१.१)
रामराम (८.१)
जामातरंजामातृ (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
स्त्रियंस्त्री (२.१)
पुरुषविग्रहम्पुरुष–विग्रह (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किं त्वान्य वै दे हः
पि ता मेमिथि लाधि पः
रा जा मा रं प्राप्य
स्त्रि यंपुरु विग्र हम्