२.२८.१४

सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।
स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥

पदच्छेदः

सत्कृत्यसत्कृत्य (√सत्-कृ + ल्यप्)
निहितंनिहित (√नि-धा + क्त, २.१)
सर्वम्सर्व (२.१)
एतद्एतद् (२.१)
आचार्यसद्मनिआचार्य–सद्मन् (७.१)
तद् (१.१)
त्वम्त्वद् (१.१)
आयुधम्आयुध (२.१)
आदायआदाय (√आ-दा + ल्यप्)
क्षिप्रम्क्षिप्रम् (अव्ययः)
आव्रजआव्रज (√आ-व्रज् लोट् म.पु. )
लक्ष्मणलक्ष्मण (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्कृत्यनिहि तंर्व
मे दा चार्यद्मनि
त्व मायु मा दा
क्षिप्र माव्रक्ष्म