२.२८.१
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।
स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥
स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥
Summary
AI
Then the highly effulgent Rāma spoke to the heroic Lakṣmaṇa, who stood before him with joined palms, pleading to accompany him as his guide.
२.२८.२
मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ।
को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥
को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥
Summary
AI
O son of Sumitrā, if you go to the forest with me today, who will look after Kausalyā or the illustrious Sumitrā?
२.२८.३
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ।
स कामपाशपर्यस्तो महातेजा महीपतिः ॥
स कामपाशपर्यस्तो महातेजा महीपतिः ॥
Summary
AI
The great-spirited king, who once showered desires like Parjanya rains upon the earth, is now ensnared by the bonds of passion.
२.२८.४
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता ।
दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥
दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥
Summary
AI
For that daughter of King Aśvapati (Kaikeyī), having obtained this kingdom, will not treat her distressed co-wives kindly.
२.२८.५
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥
Summary
AI
Thus addressed by Rāma, Lakṣmaṇa, who was skilled in speech, replied to the eloquent Rāma in gentle words.
२.२८.६
तवैव तेजसा वीर भरतः पूजयिष्यति ।
कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥
कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥
Summary
AI
O hero, undoubtedly the disciplined Bharata, influenced by your very power, will honor both Kausalyā and Sumitrā.
२.२८.७
कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
यस्याः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम् ॥
यस्याः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम् ॥
Summary
AI
The noble Kausalyā can support even a thousand like me, for she receives the revenue of a thousand villages as her livelihood.
२.२८.८
धनुरादाय सशरं खनित्रपिटकाधरः ।
अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥
अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥
Summary
AI
Taking my bow and arrows and carrying a spade and basket, I will walk ahead of you, showing the way.
२.२८.९
आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥
वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥
Summary
AI
I will daily gather for you roots, fruits, and other forest-grown foods suitable for ascetics.
२.२८.१०
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।
अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥
अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥
Summary
AI
You shall enjoy yourself with Vaidehī on the mountain peaks; I will attend to everything while you are awake or asleep.
२.२८.११
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥
व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥
Summary
AI
Highly pleased with these words, Rāma replied to him: "O son of Sumitrā, go and take leave of all your friends and kinsmen."
२.२८.१२
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥
Summary
AI
Also, the two divine bows of fierce appearance which the great-souled Varuṇa himself gave to King Janaka during his great sacrifice.
२.२८.१३
अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ ।
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥
Summary
AI
Along with the two divine impenetrable armors, quivers with inexhaustible arrows, and two swords, bright as the sun and adorned with gold.
२.२८.१४
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।
स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥
स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥
Summary
AI
All these have been placed and honored in our preceptor’s house; O Lakṣmaṇa, fetch those weapons and return quickly.
२.२८.१५
स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः ।
इक्ष्वाकुगुरुमामन्त्र्य जग्राहायुधमुत्तमम् ॥
इक्ष्वाकुगुरुमामन्त्र्य जग्राहायुधमुत्तमम् ॥
Summary
AI
Determined to live in the forest, Lakṣmaṇa took leave of his friends and the preceptor of the Ikṣvāku dynasty, and then took up the excellent weapons.
२.२८.१६
तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् ।
रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥
रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥
Summary
AI
Lakṣmaṇa, the tiger among kings, showed all those divine weapons, honored and decorated with garlands, to Rāma.
२.२८.१७
तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् ।
काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ॥
काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ॥
Summary
AI
The self-controlled Rāma affectionately said to the arrived Lakṣmaṇa: "O gentle Lakṣmaṇa, you have come at the very time I desired."
२.२८.१८
अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।
ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥
ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥
Summary
AI
O scorcher of foes, I wish to distribute this wealth of mine among the Brāhmaṇas and ascetics together with you.
२.२८.१९
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।
तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥
तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥
Summary
AI
For those excellent dvijas who reside here with firm devotion to their elders, and for all my other dependents, I wish to provide.
२.२८.२०
वसिष्ठपुत्रं तु सुयज्ञमार्यं
त्वमानयाशु प्रवरं द्विजानाम् ।
अभिप्रयास्यामि वनं समस्ता
नभ्यर्च्य शिष्टानपरान्द्विजातीन् ॥
त्वमानयाशु प्रवरं द्विजानाम् ।
अभिप्रयास्यामि वनं समस्ता
नभ्यर्च्य शिष्टानपरान्द्विजातीन् ॥
Summary
AI
Bring quickly the noble Suyajña, the son of Vasiṣṭha and foremost among dvijas. After honoring him and other virtuous dvijas, I shall depart for the forest.
॥ इति अयोध्याकाण्डे अष्टाविंशः सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.