२.२८.१७

तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् ।
काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ॥

अन्वयः

आत्मवान् selfpossessed, रामः Rama, आगतम् having arrived, तं लक्ष्मणम् to that Lakshmana, प्रीत्या affectionately, उवाच said, सौम्य O handsome, लक्ष्मण Lakshmana, त्वम् you, मम to me, काङ्क्षिते काले at the desired moment, आगतः have come.

Summary

O handsome Lakshmana, you have come at the expected time, said the selfpossessed Rama affectionately when he saw him arrive.

पदच्छेदः

तम्तद् (२.१)
उवाचात्मवान्उवाच (√वच् लिट् प्र.पु. एक.)–आत्मवत् (१.१)
रामःराम (१.१)
प्रीत्याप्रीति (३.१)
लक्ष्मणम्लक्ष्मण (२.१)
आगतम्आगत (√आ-गम् + क्त, २.१)
कालेकाल (७.१)
त्वम्त्वद् (१.१)
आगतःआगत (√आ-गम् + क्त, १.१)
सौम्यसौम्य (८.१)
काङ्क्षितेकाङ्क्षित (√काङ्क्ष् + क्त, ७.१)
मममद् (६.१)
लक्ष्मणलक्ष्मण (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु वा चात्म वा न्रा मः
प्री त्याक्ष्म मा तम्
का लेत्व मा तः सौम्य
काङ्क्षि तेक्ष्म