२.२८.१९

वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।
तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥

अन्वयः

इह here, गुरुषु among teachers, दृढम् deep, भक्त्या with devotion, द्विजसत्तमाः best of brahmins, वसन्ति are living, तेषामपि च for them, भूयः also, सर्वेषाम् for all, मे my, उपजीविनां च to my dependents.

Summary

Here live the best of brahmins who are deeply devoted to their teachers along with those who are dependent on me for their livelihood.

पदच्छेदः

वसन्तीहवसन्ति (√वस् लट् प्र.पु. बहु.)–इह (अव्ययः)
दृढंदृढ (२.१)
भक्त्याभक्ति (३.१)
गुरुषुगुरु (७.३)
द्विजसत्तमाःद्विजसत्तम (१.३)
तेषाम्तद् (६.३)
अपिअपि (अव्ययः)
(अव्ययः)
मेमद् (६.१)
भूयःभूयस् (अव्ययः)
सर्वेषांसर्व (६.३)
चोपजीविनाम् (अव्ययः)–उपजीविन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्तीदृ ढं क्त्या
गुरु षुद्वित्त माः
ते षापि मे भू यः
र्वे षां चो जीवि नाम्