२.२८.९

आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥

अन्वयः

मूलानि roots, फलानि च fruits also, तपस्विनाम् for ascetics, स्वाहाराणि eatables, वन्यानि available in the forest, यानि those, अन्यानि च other products, नित्यम् daily, ते to you, आहरिष्यामि shall collect.

Summary

I shall daily collect roots, fruits and other forest products fit for ascetics.

पदच्छेदः

आहरिष्यामिआहरिष्यामि (√आ-हृ लृट् उ.पु. )
तेत्वद् (४.१)
नित्यंनित्यम् (अव्ययः)
मूलानिमूल (२.३)
(अव्ययः)
फलानिफल (२.३)
(अव्ययः)
वन्यानिवन्य (२.३)
यानियद् (१.३)
चान्यानि (अव्ययः)–अन्य (१.३)
स्वाहाराणिस्व–आहार (१.३)
तपस्विनाम्तपस्विन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रि ष्यामि ते नि त्यं
मू लानि लानि
न्यानि यानि चा न्यानि
स्वा हा राणिस्वि नाम्