२.२९.१

ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् ।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥

अन्वयः

ततः thereafter, सः he, भ्रातुः brother's, शुभतरम् very much auspicious, प्रियम् pleasing, शासनम् command, आज्ञाय having understood, आशु immediately, गत्वा having gone, सुयज्ञस्य Suyajna's, निवेशनम् house, प्रविवेश entered.

Summary

Lakshmana having understood the very auspicious and welcome order (of Rama) immediately proceeded to the house of Suyajna.

पदच्छेदः

ततःततस् (अव्ययः)
शासनम्शासन (२.१)
आज्ञायआज्ञाय (√आ-ज्ञा + ल्यप्)
भ्रातुःभ्रातृ (६.१)
शुभतरंशुभतर (२.१)
प्रियम्प्रिय (२.१)
गत्वागत्वा (√गम् + क्त्वा)
तद् (१.१)
प्रविवेशाशुप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)–आशु (अव्ययः)
सुयज्ञस्यसुयज्ञ (६.१)
निवेशनम्निवेशन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः शा मा ज्ञा
भ्रा तुःशु रंप्रि यम्
त्वाप्रवि वे शाशु
सु ज्ञस्यनि वे नम्