२.२९.१७

ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ।
यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥

अन्वयः

ततः thereupon, पुरुषव्याघ्रः tiger among men (best of men), सः लक्ष्मणः that Lakshmana, धनदो यथा like Kubera, bestower of wealth, तत् धनम् that wealth, यथोक्तम् as told (by Rama), स्वयम् personally, ब्राह्मणेन्द्राणाम् to the Indras among brahmins (best brahmins), अददात् gave.

Summary

Thereupon Lakshmana, a tiger among men, personally distributed like Kubera, gifts of riches to all those Indras among brahmins (best of brahmins) in accordance with the instructions of Rama.

पदच्छेदः

ततःततस् (अव्ययः)
तद् (१.१)
पुरुषव्याघ्रस्पुरुष–व्याघ्र (१.१)
तद्तद् (२.१)
धनंधन (२.१)
लक्ष्मणःलक्ष्मण (१.१)
स्वयम्स्वयम् (अव्ययः)
यथोक्तंयथा (अव्ययः)–उक्त (√वच् + क्त, २.१)
ब्राह्मणेन्द्राणाम्ब्राह्मण–इन्द्र (६.३)
अददाद्अददात् (√दा लङ् प्र.पु. एक.)
धनदोधनद (१.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःपुरु व्याघ्र
स्तद्ध नंक्ष्म णःस्व यम्
थो क्तं ब्राह्म णे न्द्रा णा
दाद्ध दो था