२.२९.२४

तमुवाच ततो रामः परिहाससमन्वितम् ।
गवां सहस्रमप्येकं न तु विश्राणितं मया ।
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ॥

अन्वयः

ततः then, रामः Rama, परिहाससमन्वितम् jokingly, तम् him, उवाच said, मया by me, एकम् one, गवां सहस्रमपि thousand cows, न च विश्राणितम् not yet given away, दण्डेन with staff, यावत् as far as, परिक्षिपसि you will hurl, तावत् till such place, अवाप्स्यसि you will obtain.

Summary

Rama jokingly replied to him, I have not yet gifted one thousand cows. Throw your staff and the cows on the space your staff covers will be yours.

पदच्छेदः

तम्तद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
ततोततस् (अव्ययः)
रामःराम (१.१)
परिहाससमन्वितम्परिहास–समन्वित (२.१)
गवांगो (६.३)
सहस्रम्सहस्र (१.१)
अप्य्अपि (अव्ययः)
एकंएक (१.१)
(अव्ययः)
तुतु (अव्ययः)
विश्राणितंविश्राणित (१.१)
मयामद् (३.१)
परिक्षिपसिपरिक्षिपसि (√परि-क्षिप् लट् म.पु. )
दण्डेनदण्ड (३.१)
यावत्यावत् (अव्ययः)
तावद्तावत् (अव्ययः)
अवाप्स्यसिअवाप्स्यसि (√अव-आप् लृट् म.पु. )

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
मु वा तो रा मःरि हा
न्वि तम् वांस्र प्ये कं
तु वि श्राणि तं या रिक्षि
सि ण्डे या त्ता वाप्स्यसि