२.२९.२५

स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ।
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥

अन्वयः

सः Trijata, सम्भ्रान्तः bewildered, त्वरितः swiftly, तां शाटीम् his upper garment, कट्याम् on his waist, परिवेष्ट्य after throwing round, दण्डम् staff, आविद्ध्य after setting the direction, वेगितः swiftly, सर्वप्राणेन with all his might, चिक्षेप hurled.

Summary

Bewildered Trijata swiftly tightened up his upper garment around his waist, set the direction for his staff and hurled it with all his might.

पदच्छेदः

तद् (१.१)
शाटींशाटी (२.१)
त्वरितःत्वरित (√त्वर् + क्त, १.१)
कट्यांकटि (७.१)
संभ्रान्तःसंभ्रान्त (√सम्-भ्रम् + क्त, १.१)
परिवेष्ट्यपरिवेष्ट्य (√परि-वेष्टय् + ल्यप्)
ताम्तद् (२.१)
आविध्यआविध्य (√आ-व्यध् + ल्यप्)
दण्डंदण्ड (२.१)
चिक्षेपचिक्षेप (√क्षिप् लिट् प्र.पु. एक.)
सर्वप्राणेनसर्व–प्राण (३.१)
वेगितःवेगित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शा टींत्वरि तः ट्यां
सं भ्रा न्तःरि वेष्ट्य ताम्
विध्य ण्डं चि क्षे
र्व प्रा णे वेगि तः