२.२९.८

पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् ।
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥

अन्वयः

वैदेही Sita, अग्य्रास्तरणम् exquisite bed cover, नानारत्नविभूषितम् encrusted with various gems, तं पर्यङ्कम् that couch, अपि also, त्वयि in you, प्रतिष्ठापयितुम् to place (in your house), इच्छति wishes.

Summary

Sita also wishes to give away a couch with an exquisite cover, encrusted with a variety of precious stones.

पदच्छेदः

पर्यङ्कम्पर्यङ्क (२.१)
अग्र्यास्तरणंअग्र्य–आस्तरण (२.१)
नानारत्नविभूषितम्नाना (अव्ययः)–रत्न–विभूषित (√वि-भूषय् + क्त, २.१)
तम्तद् (२.१)
अपीच्छतिअपि (अव्ययः)–इच्छति (√इष् लट् प्र.पु. एक.)
वैदेहीवैदेही (१.१)
प्रतिष्ठापयितुंप्रतिष्ठापयितुम् (√प्रति-स्थापय् + तुमुन्)
त्वयित्वद् (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्यङ्क ग्र्यास्त णं
ना नात्नवि भूषि तम्
पीच्छति वै दे ही
प्र ति ष्ठायि तुंत्वयि