२.३.१५

स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः ।
आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥

अन्वयः

 नरपुङ्गवः best among men, सः that, राघवः Rama, नृपम् the king, द्रष्टुम् to see, सूतेन सह accompanied by charioteer Sumantra, कैलासशृङ्गाभम् as lofty as the peak of Kailasa, तम् प्रासादम् that palace, आरुरोह ascended.

Summary

Best among men, Rama accompanied by charioteer Sumantra ascended that palace that was lofty as the peak of Kailasa mountain in order to see the king.

पदच्छेदः

तद् (१.१)
तंतद् (२.१)
कैलासशृङ्गाभंकैलास–शृङ्ग–आभ (२.१)
प्रासादंप्रासाद (२.१)
नरपुंगवःनर–पुंगव (१.१)
आरुरोहआरुरोह (√आ-रुह् लिट् प्र.पु. एक.)
नृपंनृप (२.१)
द्रष्टुंद्रष्टुम् (√दृश् + तुमुन्)
सहसह (अव्ययः)
सूतेनसूत (३.१)
राघवःराघव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं कै ला शृ ङ्गा भं
प्रा सा दं पुं वः
रु रोनृ पं द्र ष्टुं
सू ते रा वः