२.३.१६

स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ।
नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः ॥

अन्वयः

सः रामः that Rama, प्राञ्जलिः with folded palms, अभिप्रेत्य having approached, पितुः father's, अन्तिके in proximity, प्रणतः bowing low, स्वम् his own, नाम name, श्रावयन् pronouncing, पितुः father's, चरणौ feet, ववन्दे touched with reverence.

Summary

Rama, approached his father with folded palms and bowed low near him, pronounced his (own) name and touched his father's feet with reverence.

पदच्छेदः

तद् (१.१)
प्राञ्जलिर्प्राञ्जलि (१.१)
अभिप्रेत्यअभिप्रेत्य (√अभिप्र-इ + ल्यप्)
प्रणतःप्रणत (√प्र-नम् + क्त, १.१)
पितुर्पितृ (६.१)
अन्तिकेअन्तिक (७.१)
नामनामन् (२.१)
स्वंस्व (२.१)
श्रावयन्श्रावयत् (√श्रावय् + शतृ, १.१)
रामोराम (१.१)
ववन्देववन्दे (√वन्द् लिट् प्र.पु. एक.)
चरणौचरण (२.२)
पितुःपितृ (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्राञ्जलि भि प्रेत्य
प्र तःपितुन्ति के
ना स्वं श्रा न्रा मो
न्दे णौपि तुः