२.३.२

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥

अन्वयः

मे my, ज्येष्ठम् eldest, प्रियम् beloved, पुत्रम् son, यौवराज्यस्थम् as prince regent, यत् इच्छथ since you are desiring, अहो oh, परम प्रीत: अस्मि I am immensely pleased, मम my, प्रभावश्च splendour, अतुलः incomparable.

Summary

I am immensely happy that you have added to my incomparable resilience with your desire to see my beloved eldest son installed heirapparent.

पदच्छेदः

अहोअहो (अव्ययः)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
परमप्रीतःपरम–प्रीत (√प्री + क्त, १.१)
प्रभावश्प्रभाव (१.१)
चातुलो (अव्ययः)–अतुल (१.१)
मममद् (६.१)
यन्यत् (अव्ययः)
मेमद् (६.१)
ज्येष्ठंज्येष्ठ (२.१)
प्रियंप्रिय (२.१)
पुत्रंपुत्र (२.१)
यौवराज्यस्थम्यौवराज्य–स्थ (२.१)
इच्छथइच्छथ (√इष् लट् म.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

होऽस्मि प्री तः
प्र भा श्चातु लो
न्मे ज्ये ष्ठंप्रि यं पु त्रं
यौ रा ज्यस्थ मिच्छ