२.३.२२

स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ।
उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः ॥

अन्वयः

पुत्रावताम् among those having sons, वरः best, सः राजा that king, तं पुत्रम् that son, सस्मितम् with a smile, आभाष्य having called, काश्यपः Kasyapa, देवेन्द्रमिव like Devendra, इदम् this, वचः words, उवाच spoke.

Summary

The best among fathers, he (Dasaratha) said these words to his son with a smile, like Kasyapa addressing Devendra.

पदच्छेदः

तद् (१.१)
तंतद् (२.१)
सस्मितम् (अव्ययः)–स्मित (२.१)
आभाष्यआभाष्य (√आ-भाष् + ल्यप्)
पुत्रंपुत्र (२.१)
पुत्रवतांपुत्रवत् (६.३)
वरःवर (१.१)
उवाचेदंउवाच (√वच् लिट् प्र.पु. एक.)–इदम् (२.१)
वचोवचस् (२.१)
राजाराजन् (१.१)
देवेन्द्रम्देव–इन्द्र (२.१)
इवइव (अव्ययः)
कश्यपःकश्यप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंस्मि मा भाष्य
पु त्रं पुत्र तां रः
वा चे दं चो रा जा
दे वेन्द्रमिश्य पः