२.३.२३

ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ।
उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥

अन्वयः

राम O Rama, ज्येष्ठायाम् the eldest, सदृश्याम् worthy woman, मे पत्न्याम् to my wife, उत्पन्नः born, सदृशः worthy, सुतः असि are a son, गुणश्रेष्ठः having excellent virtues, त्वम् you, मम to me, प्रियः आत्मजः beloved son.

Summary

A worthy son of my worthy eldest wife, O Rama, your great virtues have endeared you to me.

पदच्छेदः

ज्येष्ठायाम्ज्येष्ठ (७.१)
असिअसि (√अस् लट् म.पु. )
मेमद् (६.१)
पत्न्यांपत्नी (७.१)
सदृश्यांसदृश (७.१)
सदृशःसदृश (१.१)
सुतःसुत (१.१)
उत्पन्नस्उत्पन्न (√उत्-पद् + क्त, १.१)
त्वंत्वद् (१.१)
गुणश्रेष्ठोगुण–श्रेष्ठ (१.१)
मममद् (६.१)
रामात्मजःराम (८.१)–आत्मज (१.१)
प्रियःप्रिय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ये ष्ठा यासि मे त्न्यां
दृ श्यांदृ शःसु तः
त्प न्न स्त्वंगु श्रे ष्ठो
रा मात्म जःप्रि यः