२.३.२५

कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ।
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥

अन्वयः

त्वम् you, कामतः admittedly, प्रकृत्यैव by nature itself, विनीतः gentle one, गुणवान् असि are virtuous, पुत्र O son, गुणवत्यपि तु (in you) even though possessed of virtues, स्नेहात् out of affection, ते you, हितम् good, वक्ष्यामि I shall speak.

Summary

Admittedly gentle by nature, you are gifted with virtues. O son, even though virtuous, I shall offer you counsel for your good out of affection for you.

पदच्छेदः

कामतस्कामतस् (अव्ययः)
त्वंत्वद् (१.१)
प्रकृत्यैवप्रकृति (३.१)–एव (अव्ययः)
विनीतोविनीत (√वि-नी + क्त, १.१)
गुणवान्गुणवत् (१.१)
असिअसि (√अस् लट् म.पु. )
गुणवत्य्गुणवत् (७.१)
अपिअपि (अव्ययः)
तुतु (अव्ययः)
स्नेहात्स्नेह (५.१)
पुत्रपुत्र (८.१)
वक्ष्यामिवक्ष्यामि (√वच् लृट् उ.पु. )
तेत्वद् (४.१)
हितम्हित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का स्त्वंप्र कृ त्यै
वि नी तोगु वासि
गुत्यपि तु स्ने हा
त्पुत्र क्ष्यामि तेहि तम्