२.३.६

ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् ।
रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥

अन्वयः

ततः thereafter, द्युतिमान् effulgent, राजा king, सुमन्त्रम् to Sumantra, कृतात्मा selfpossessed, रामः Rama, भवता by you, शीघ्रम् immediately, आनीयताम् be brought, इति thus, वचनम् word, अब्रवीत् spoke.

Summary

Thereafter the glorious king said to Sumantra, Bring immediately the selfpossessed Rama.

पदच्छेदः

ततःततस् (अव्ययः)
सुमन्त्रंसुमन्त्र (२.१)
द्युतिमान्द्युतिमत् (१.१)
राजाराजन् (१.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
रामःराम (१.१)
कृतात्माकृत (√कृ + क्त)–आत्मन् (१.१)
भवताभवत् (३.१)
शीघ्रम्शीघ्रम् (अव्ययः)
आनीयताम्आनीयताम् (√आ-नी प्र.पु. एक.)
इतिइति (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःसु न्त्रंद्युति मा
न्रा जाब्र वीत्
रा मःकृ ता त्मा ता
शीघ्र मा नी तामिति