२.३०.१२

आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ।
राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥

अन्वयः

आनृशंस्यम् harmlessness, अनुक्रोशः compassion, श्रुतम् learning, शीलम् good conduct, दमः restraint of senses, शमः self control, एते all these, षट् six, गुणाः qualities, पुरुषोत्तमम् greatest among men, राघवम् Rama, शोभयन्ति adorn.

Summary

Harmlessness, compassion, learning, good conduct, restraint of senses and selfcontrol, all these six qualities adorn Rama, the greatest among men.

पदच्छेदः

आनृशंस्यम्आनृशंस्य (१.१)
अनुक्रोशःअनुक्रोश (१.१)
श्रुतंश्रुत (१.१)
शीलंशील (१.१)
दमःदम (१.१)
शमःशम (१.१)
राघवंराघव (२.१)
शोभयन्त्य्शोभयन्ति (√शोभय् लट् प्र.पु. बहु.)
एतेएतद् (१.३)
षड्गुणाःषष्–गुण (१.३)
पुरुषोत्तमम्पुरुष–उत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नृ शंस्य नु क्रो शः
श्रु तं शी लं मः मः
रा वं शो न्त्ये ते
ड्गु णाःपुरु षोत्त मम्