२.३०.१६

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥

अन्वयः

उद्यानानि gardens, क्षेत्राणि fields, गृहाणि च houses also, परित्यज्य deserting, एक दुःखसुखाः experiencing the same joy and sorrow (as Rama), धार्मिकम् virtuous, रामम् Rama, अनुगच्छामः shall follow.

Summary

Deserting our gardens, fields and houses and experiencing the same joy and sorrow of the virtuous Rama, we shall follow him.

पदच्छेदः

उद्यानानिउद्यान (२.३)
परित्यज्यपरित्यज्य (√परि-त्यज् + ल्यप्)
क्षेत्राणिक्षेत्र (२.३)
(अव्ययः)
गृहाणिगृह (२.३)
(अव्ययः)
एकदुःखसुखाएक–दुःख–सुख (१.३)
रामम्राम (२.१)
अनुगच्छामअनुगच्छाम (√अनु-गम् लोट् उ.पु. द्वि.)
धार्मिकम्धार्मिक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्या नानि रि त्यज्य
क्षे त्राणिगृ हाणि
दुःसु खा रा
नु च्छा धार्मि कम्