२.३०.१७

समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।
उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥

पदच्छेदः

समुद्धृतनिधानानिसमुद्धृत (√समुत्-हृ + क्त)–निधान (२.३)
परिध्वस्ताजिराणिपरिध्वस्त (√परि-ध्वंस् + क्त)–अजिर (२.३)
(अव्ययः)
उपात्तधनधान्यानिउपात्त (√उप-दा + क्त)–धन–धान्य (२.३)
हृतसाराणिहृत (√हृ + क्त)–सार (२.३)
सर्वशःसर्वशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मुद्धृनि धा नानि
रि ध्व स्ताजि राणि
पात्त धा न्यानि
हृ सा राणिर्व शः