२.३०.१८

रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥

पदच्छेदः

रजसाभ्यवकीर्णानिरजस् (३.१)–अभ्यवकीर्ण (√अभ्यव-कृ + क्त, २.३)
परित्यक्तानिपरित्यक्त (√परि-त्यज् + क्त, २.३)
दैवतैःदैवत (३.३)
अस्मत्त्यक्तानिमद्–त्यक्त (√त्यज् + क्त, २.३)
वेश्मानिवेश्मन् (२.३)
कैकेयीकैकेयी (१.१)
प्रतिपद्यताम्प्रतिपद्यताम् (√प्रति-पद् लोट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

साभ्य की र्णानि
रि त्य क्तानि दै तैः
स्म त्त्य क्तानि वे श्मानि
कै के यीप्रतिद्य ताम्