२.३०.२१

इत्येवं विविधा वाचो नानाजनसमीरिताः ।
शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥

अन्वयः

रामः Rama, इत्येवम् this way, नानाजनसमीरिताः uttered by various people, विविधाः different, वाचः words, शुश्राव heard, श्रुत्वा च also having, अस्य his, मानसम् mind, न विचक्रे did not deviate.

Summary

Such were the various words uttered by the people. Even after hearing them his (Rama's) mind remained unmoved (from his resolve).

पदच्छेदः

इत्य्इति (अव्ययः)
एवंएवम् (अव्ययः)
विविधाविविध (२.३)
वाचोवाच् (२.३)
नानाजनसमीरिताःनाना (अव्ययः)–जन–समीरित (√सम्-ईरय् + क्त, २.३)
शुश्रावशुश्राव (√श्रु लिट् प्र.पु. एक.)
रामःराम (१.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
(अव्ययः)
(अव्ययः)
विचक्रेविचक्रे (√वि-कृ लिट् प्र.पु. एक.)
ऽस्यइदम् (६.१)
मानसम्मानस (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये वंविवि धा वा चो
ना ना मीरि ताः
शु श्रा रा मः श्रु त्वा
वि क्रेऽस्य मा सम्