२.३०.२२

प्रतीक्षमाणोऽभिजनं तदार्त;मनार्तरूपः प्रहसन्निवाथ ।
जगाम रामः पितरं दिदृक्षुः; पितुर्निदेशं विधिवच्चिकीर्षुः ॥

अन्वयः

रामः Rama, तदा then, आर्तम् distressed, जनम् people, प्रतीक्षमाणोऽपि even though observing, अनार्तरूपः without revealing his sorrowful feelings, अथ also, प्रहसन्निव looking as if smiling, पितुः father's, निदेशम् palace, विधिवत् in accordance with duty, चिकीर्षुः intent on carrying out, पितरम् father, दिदृक्षुः intent to see, जगाम went.

Summary

Even after observing the people in grief, Rama did not reveal his sorrowful feelings. Bound by duty he went in as if with a smile to see his father.

पदच्छेदः

प्रतीक्षमाणोप्रतीक्षमाण (√प्रति-ईक्ष् + शानच्, १.१)
ऽभिजनंअभिजन (२.१)
तदार्तम्तदा (अव्ययः)–आर्त (२.१)
अनार्तरूपःअन् (अव्ययः)–आर्त–रूप (१.१)
प्रहसन्न्प्रहसत् (√प्र-हस् + शतृ, १.१)
इवाथइव (अव्ययः)–अथ (अव्ययः)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
रामःराम (१.१)
पितरंपितृ (२.१)
दिदृक्षुःदिदृक्षु (१.१)
पितुर्पितृ (६.१)
निदेशंनिदेश (२.१)
विधिवच्विधिवत् (अव्ययः)
चिकीर्षुःचिकीर्षु (१.१)

छन्दः

उपेन्द्रवज्रा [११: जतजगग]

छन्दोविश्लेषणम्

१०११
प्र तीक्ष मा णोऽभि नं दार्त
नार्त रू पःप्रन्नि वा
गा रा मःपि रंदि दृ क्षुः
पि तुर्नि दे शंविधिच्चि की र्षुः