२.३०.२३

तत्पूर्वमैक्ष्वाकसुतो महात्मा; रामो गमिष्यन्वनमार्तरूपम् ।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं; पितुर्महात्मा प्रतिहारणार्थम् ॥

अन्वयः

ऐक्ष्वाकसुतः son of the Ikshvaku race, महात्मा great intellectual, महात्मा highly courageous, रामः Rama, तत् पूर्वम् for the first time, वनम् to the forest, गमिष्यन् while departing, तदा then, आर्तरूपम् sad appearance, सुमन्त्रम् Sumantra, प्रेक्ष्य having seen, पितुः to father, प्रतिहारणार्थम् to inform, व्यतिष्ठत stood.

Summary

Seeing Sumantra stricken with grief for the first time the magnanimous Rama, scion of the Ikshvaku dynasty, on the way to the forest waited there for his father to be informed of his arrival.

पदच्छेदः

तत्तद् (२.१)
पूर्वम्पूर्वम् (अव्ययः)
ऐक्ष्वाकसुतोऐक्ष्वाक–सुत (१.१)
महात्मामहात्मन् (१.१)
रामोराम (१.१)
गमिष्यन्गमिष्यत् (√गम् + कृत्, १.१)
वनम्वन (२.१)
आर्तरूपम्आर्त–रूप (२.१)
व्यतिष्ठतव्यतिष्ठत (√वि-स्था लङ् प्र.पु. एक.)
प्रेक्ष्यप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)
तदातदा (अव्ययः)
सुमन्त्रंसुमन्त्र (२.१)
पितुर्पितृ (६.१)
महात्मामहात्मन् (१.१)
प्रतिहारणार्थम्प्रतिहारण–अर्थ (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
त्पूर्व मै क्ष्वासु तो हा त्मा
रा मो मि ष्यन्व मार्त रू पम्
व्य तिष्ठ प्रेक्ष्य दासु न्त्रं
पि तुर्म हा त्माप्रति हा णा र्थम्