२.३०.३

ततः प्रासादहर्म्याणि विमानशिखराणि च ।
अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥

अन्वयः

ततः then, श्रीमान् prosperous, जनः people, प्रासादहर्म्याणि palaces and mansions, विमानशिखराणि च terraces of sevenstoried buildings, अधिरुह्य having climbed, उदासीनः sad, व्यलोकयत् looked.

Summary

The rich climbed their palaces and mansions, terraces of sevenstoried buildings and watched them sadly.

पदच्छेदः

ततःततस् (अव्ययः)
प्रासादहर्म्याणिप्रासाद–हर्म्य (२.३)
विमानशिखराणिविमान–शिखर (२.३)
(अव्ययः)
अधिरुह्यअधिरुह्य (√अधि-रुह् + ल्यप्)
जनःजन (१.१)
श्रीमान्श्रीमत् (१.१)
उदासीनोउदासीन (√उत्-आस् + क्त, १.१)
व्यलोकयत्व्यलोकयत् (√वि-लोकय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः प्रा सा र्म्याणि
वि माशि राणि
धि रुह्य नः श्री मा
नु दा सी नोव्य लो यत्