२.३०.५

पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः ।
ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥

अन्वयः

तदा then, जनाः people, पदातिम् pedestrian, वर्जितच्छत्रम् without the (royal) umbrella, रामम् to Rama, दृष्ट्वा having seen, शोकोपहतचेतसः griefstricken, बहुविधाः in many ways, वाचः words, ऊचुः uttered.

Summary

Seeing Rama walking without the royal umbrella, people were very much shocked. They expressed their reaction in so many words:

पदच्छेदः

पदातिंपदाति (२.१)
वर्जितच्छत्त्रंवर्जित (√वर्जय् + क्त)–छत्त्र (२.१)
रामंराम (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तदातदा (अव्ययः)
जनाःजन (१.३)
ऊचुर्ऊचुः (√वच् लिट् प्र.पु. बहु.)
बहुविधाबहुविध (२.३)
वाचःवाच् (२.३)
शोकोपहतचेतसःशोक–उपहत (√उप-हन् + क्त)–चेतस् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा तिंर्जि च्छ त्रं
रा मं दृ ष्ट्वा दा नाः
चुर्बहुवि धा वा चः
शो को चे सः