२.३०.६

यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।
तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ॥

अन्वयः

यान्तम् while going, यम् whom, महत् powerful, चतुरङ्गबलम् army of four divisions, अनुयाति स्म used to follow, तम् such, एकम् alone, सीतया सार्धम् along with Sita, लक्ष्मणः Lakshmana, अनुयाति स्म followed.

Summary

Whenever Rama went out, powerful army of four divisions used to follow him. Today he is walking alone followed by Lakshmana and Sita.

पदच्छेदः

यंयद् (२.१)
यान्तम्यान्त् (√या + शतृ, २.१)
अनुयातिअनुयाति (√अनु-या लट् प्र.पु. एक.)
स्मस्म (अव्ययः)
चतुरङ्गबलंचतुर्–अङ्ग–बल (१.१)
महत्महत् (१.१)
तम्तद् (२.१)
एकंएक (२.१)
सीतयासीता (३.१)
सार्धम्सार्धम् (अव्ययः)
अनुयातिअनुयाति (√अनु-या लट् प्र.पु. एक.)
स्मस्म (अव्ययः)
लक्ष्मणःलक्ष्मण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यं यान्तनु या तिस्म
तुङ्ग लं हत्
मे कं सी या सार्ध
नु या तिस्मक्ष्म णः