२.३०.७

ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः ।
नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥

अन्वयः

ऐश्वर्यस्य of affluence, रसज्ञः सन् while enjoying, कामिनाम् for those who have desires, कामदः चैव fulfiller of desires (Rama), धर्मगौरवात् out of veneration for righteousness, पितरं to father, अनृतम् false, कर्तुम् to make, नेच्छत्येव does not wish.

Summary

Rama who enjoyed the comforts of affluence gratifies those who have desires. Out of veneration for righteousness, he does not want to prove his father false (to his promise).

पदच्छेदः

ऐश्वर्यस्यऐश्वर्य (६.१)
रसज्ञःरसज्ञ (१.१)
सन्सत् (√अस् + शतृ, १.१)
कामिनांकामिन् (६.३)
चैव (अव्ययः)–एव (अव्ययः)
कामदःकाम–द (१.१)
नेच्छत्य् (अव्ययः)–इच्छति (√इष् लट् प्र.पु. एक.)
एवानृतंएव (अव्ययः)–अनृत (२.१)
कर्तुंकर्तुम् (√कृ + तुमुन्)
पितरंपितृ (२.१)
धर्मगौरवात्धर्म–गौरव (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्व र्यस्य ज्ञः
न्कामि नां चै का दः
ने च्छ त्ये वानृ तं र्तुं
पि रंर्म गौ वात्