२.३१.१

स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः ।
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥

अन्वयः

सन्तापकलुषेन्द्रिय: senses overwhelmed with grief, सः सूतः that charioteer (Sumantra), रामप्रेषितः sent forth by Rama, क्षिप्रम् quickly, प्रविश्य having entered, निःश्वसन्तम् sighing, नृपतिम् to king Dasaratha, ददर्श saw.

Summary

At the command of Rama, charioteer Sumantra whose senses were overwhelmed with grief quickly entered the apartment of the king and found him heaving sighs.

पदच्छेदः

तद् (१.१)
रामप्रेषितःराम–प्रेषित (√प्र-इषय् + क्त, १.१)
क्षिप्रंक्षिप्रम् (अव्ययः)
संतापकलुषेन्द्रियःसंताप–कलुष–इन्द्रिय (१.१)
प्रविश्यप्रविश्य (√प्र-विश् + ल्यप्)
नृपतिंनृपति (२.१)
सूतोसूत (१.१)
निःश्वसन्तंनिःश्वसत् (√निः-श्वस् + शतृ, २.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा प्रेषि तः क्षि प्रं
सं तालु षेन्द्रि यः
प्र विश्यनृ तिं सू तो
निःश्व न्तंर्श