२.३१.११

आगतेषु च दारेषु समवेक्ष्य महीपतिः ।
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥

अन्वयः

दारेषु the wives आगतेषु having arrived, महीपतिः lord of the world (Dasaratha), राजा king, समवेक्ष्य having seen, तं सूतम् to that charioteer, उवाच said, सुमन्त्र Sumantra, मे सुतम् my son (Rama), आनय usher in

Summary

Usher in my son (Rama), O Sumantra, said the lord of the world (king Dasaratha) to the charioteer on seeing his wives arrive.

पदच्छेदः

आगतेषुआगत (√आ-गम् + क्त, ७.३)
(अव्ययः)
दारेषुदार (७.३)
समवेक्ष्यसमवेक्ष्य (√समव-ईक्ष् + ल्यप्)
महीपतिःमहीपति (१.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
राजाराजन् (१.१)
तंतद् (२.१)
सूतंसूत (२.१)
सुमन्त्रानयसुमन्त्र (८.१)–आनय (√आ-नी लोट् म.पु. )
मेमद् (६.१)
सुतम्सुत (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेषु दा रेषु
वेक्ष्य ही तिः
वा रा जा तं सू तं
सु न्त्रा मेसु तम्