२.३१.१३

स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् ।
उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥

अन्वयः

स्त्रीजनसंवृतः surrounded by women, सः राजा that king, कृताञ्जलिम् with folded hands, आयान्तम् coming, पुत्रम् son, दूरात् at distance, दृष्ट्वा having seen, आर्तः with grief, तूर्णम् suddenly, आसनात् from the throne, उत्पपात stood up.

Summary

When the king saw from a distance his son coming with folded hands, he, surrounded by the ladies and tormented with grief, stood up.

पदच्छेदः

तद् (१.१)
राजाराजन् (१.१)
पुत्रम्पुत्र (२.१)
आयान्तंआयान्त् (√आ-या + शतृ, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
दूरात्दूर (५.१)
कृताञ्जलिम्कृत (√कृ + क्त)–अञ्जलि (२.१)
उत्पपातासनात्उत्पपात (√उत्-पत् लिट् प्र.पु. एक.)–आसन (५.१)
तूर्णम्तूर्णम् (अव्ययः)
आर्तःआर्त (१.१)
स्त्रीजनसंवृतःस्त्री–जन–संवृत (√सम्-वृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा जा पुत्र मा या न्तं
दृ ष्ट्वा दू रात्कृ ताञ्ज लिम्
त्प पा ता ना त्तूर्ण
मा र्तः स्त्री संवृ तः