२.३१.२०

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।
कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥

अन्वयः

लक्ष्मणं च (to) Lakshmana also, अनुजानीहि may allow, सीता च Sita also, माम् me, वनम् to the forest, अन्वेति will be following, तथ्यैः by genuine, बहुभिः many, कारणैः with reasons, वार्यमाणौ dissuaded, न च इच्छतः both do not agree.

Summary

Allow Lakshmana and Sita to follow me into the forest. I tried to dissuade them with a number of reasons but they did not agree.

पदच्छेदः

लक्ष्मणंलक्ष्मण (२.१)
चानुजानीहि (अव्ययः)–अनुजानीहि (√अनु-ज्ञा लोट् म.पु. )
सीतासीता (१.१)
चान्वेति (अव्ययः)–अन्वेति (√अनु-इ लट् प्र.पु. एक.)
मांमद् (२.१)
वनम्वन (२.१)
कारणैर्कारण (३.३)
बहुभिस्बहु (३.३)
तथ्यैर्तथ्य (३.३)
वार्यमाणौवार्यमाण (√वारय् + शानच्, १.२)
(अव्ययः)
चेच्छतः (अव्ययः)–इच्छतः (√इष् लट् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्म णं चानु जा नीहि
सी ता चा न्वेति मां नम्
का णैर्बहु भि स्त थ्यै
र्वार्य मा णौ चेच्छ तः