२.३१.२५

भवान्वर्षसहस्राय पृथिव्या नृपते पतिः ।
अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् ॥

अन्वयः

नृपते O king, वर्षसहस्राय for a thousand years, भवान् you alone, पृथिव्याः of this earth, पतिः are the lord, अहं तु as for me, अरण्ये in the forest, वत्स्यामि I will dwell, त्वया by you, मे to me, अनृतम् untruth, न कार्यम् should not be done.

Summary

You will remain the lord of this earth for a thousand years to come, O king As for me, I will dwell in the forest. Do not deviate from truth on my account.

पदच्छेदः

भवान्भवत् (१.१)
वर्षसहस्रायवर्ष–सहस्र (४.१)
पृथिव्यापृथिवी (६.१)
नृपतेनृपति (८.१)
पतिःपति (१.१)
अहंमद् (१.१)
त्व्तु (अव्ययः)
अरण्येअरण्य (७.१)
वत्स्यामिवत्स्यामि (√वस् लृट् उ.पु. )
(अव्ययः)
मेमद् (६.१)
कार्यंकार्य (√कृ + कृत्, १.१)
त्वयानृतम्त्वद् (३.१)–अनृत (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा न्वर्ष स्रा
पृ थि व्यानृ ते तिः
हंत्व ण्ये त्स्यामि
मे का र्यंत्व यानृ तम्