२.३१.२८

अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ।
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥

अन्वयः

अथ thereafter, रामः Rama, तथा in that way, आर्तस्य of the distressed one, पितुः father's, भाषितम् words, श्रुत्वा having heard, भ्रात्रा with brother, लक्ष्मणेन सह along with Lakshmana, दीनः distressed, वचनम् words, अब्रवीत् spoke.

Summary

Rama and Lakshmana were sad to hear the words of their anguished father. Rama replies:

पदच्छेदः

अथअथ (अव्ययः)
रामस्राम (१.१)
तथातथा (अव्ययः)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
पितुर्पितृ (६.१)
आर्तस्यआर्त (६.१)
भाषितम्भाषित (२.१)
लक्ष्मणेनलक्ष्मण (३.१)
सहसह (अव्ययः)
भ्रात्राभ्रातृ (३.१)
दीनोदीन (१.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्त था श्रु त्वा
पितु रा र्तस्य भाषि तम्
क्ष्म णे भ्रा त्रा
दी नोब्र वीत्