२.३१.३३

पुरं च राष्ट्रं च मही च केवला; मया निसृष्टा भरताय दीयताम् ।
अहं निदेशं भवतोऽनुपालय;न्वनं गमिष्यामि चिराय सेवितुम् ॥

अन्वयः

पुरं च city, राष्ट्रं च kingdom also, मया by me, निसृष्टा delivered, केवला मही च this entire earth, भरताय for Bharata, दीयताम् may be given, अहम् I, भवतः your, निदेशम् order, अनुपालयन् obeying, वनम् to the forest, चिराय for a long time, सेवितुम् to serve, गमिष्यामि shall go.

Summary

I am renouncing this city, kingdom and this entire earth, and let all this be conferred on Bharata. In obedience to your order, I shall go and live in the forest for a long time.

पदच्छेदः

पुरंपुर (१.१)
(अव्ययः)
राष्ट्रंराष्ट्र (१.१)
(अव्ययः)
महीमही (१.१)
(अव्ययः)
केवलाकेवल (१.३)
मयामद् (३.१)
निसृष्टानिसृष्ट (√नि-सृज् + क्त, १.३)
भरतायभरत (४.१)
दीयताम्दीयताम् (√दा प्र.पु. एक.)
अहंमद् (१.१)
निदेशंनिदेश (२.१)
भवतोभवत् (६.१)
ऽनुपालयन्अनुपालयत् (√अनु-पालय् + शतृ, १.१)
वनंवन (२.१)
गमिष्यामिगमिष्यामि (√गम् लृट् उ.पु. )
चिरायचिराय (अव्ययः)
सेवितुम्सेवितुम् (√सेव् + तुमुन्)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
पु रं रा ष्ट्रं ही के ला
यानि सृ ष्टा ता दी ताम्
हंनि दे शं तोऽनु पा
न्व नं मि ष्यामिचि रा सेवि तुम्