२.३१.३४

मया निसृष्टां भरतो महीमिमां; सशैलखण्डां सपुरां सकाननाम् ।
शिवां सुसीमामनुशास्तु केवलं; त्वया यदुक्तं नृपते यथास्तु तत् ॥

अन्वयः

नृपते O king, सशैलषण्डाम् along with mountain ranges, सपुराम् with cities, सकाननाम् with forests, शिवाम् auspicious, सुसीमाम् with welllaid frontiers, मया by me, निसृष्टाम् given away, इमां महीम् this land, भरतः Bharata, केवलम् alone, अनुशास्तु may rule, त्वया by you, यत् which, उक्तम् was said, तत् that one, तथा अस्तु may happen.

Summary

I am leaving behind, O king this (auspicious) land with its welllaid boundaries, mountain ranges, cities and forests, which Bharata alone should rule. Let it happen the way you have said.

पदच्छेदः

मयामद् (३.१)
निसृष्टांनिसृष्ट (√नि-सृज् + क्त, २.१)
भरतोभरत (१.१)
महीम्मही (२.१)
इमांइदम् (२.१)
सशैलखण्डां (अव्ययः)–शैल–खण्ड (२.१)
सपुरां (अव्ययः)–पुर (२.१)
सकाननाम् (अव्ययः)–कानन (२.१)
शिवांशिव (२.१)
सुसीमाम्सु (अव्ययः)–सीमा (२.१)
अनुशास्तुअनुशास्तु (√अनु-शास् लोट् प्र.पु. एक.)
केवलंकेवलम् (अव्ययः)
त्वयात्वद् (३.१)
यद्यद् (१.१)
उक्तंउक्त (√वच् + क्त, १.१)
नृपतेनृपति (८.१)
यथास्तुयथा (अव्ययः)–अस्तु (√अस् लोट् प्र.पु. एक.)
तत्तद् (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
यानि सृ ष्टां तो हीमि मां
शै ण्डांपु रां का नाम्
शि वांसु सी मानु शास्तु के लं
त्व या दु क्तंनृ ते थास्तु तत्