२.३१.३५

न मे तथा पार्थिव धीयते मनो; महत्सु कामेषु न चात्मनः प्रिये ।
यथा निदेशे तव शिष्टसंमते; व्यपैतु दुःखं तव मत्कृतेऽनघ ॥

अन्वयः

अनघ O sinless, पार्थिव O king, मे मनः my mind, शिष्टसम्मते acceptable to the disciplined (wise), तव निदेशे by your order, यथा as, धीयते is contained, तथा in that way, महत्सु great, कामेषु pleasures, न not, आत्मनः mine, प्रिये dear, न not, मत्कृते on my account, तव your, दुःखम् grief, व्यपैतु shall be expelled.

Summary

O king my mind derives no happiness from great enjoyment or personal comfort as it does from carrying out your order. This is corroborated by the wise. Your grief (relating to filfilment of the vow) on mt account will be dispelled, O sinless one

पदच्छेदः

(अव्ययः)
मेमद् (४.१)
तथातथा (अव्ययः)
पार्थिवपार्थिव (८.१)
धीयतेधीयते (√धा प्र.पु. एक.)
मनोमनस् (१.१)
महत्सुमहत् (७.३)
कामेषुकाम (७.३)
(अव्ययः)
चात्मनः (अव्ययः)–आत्मन् (६.१)
प्रियेप्रिय (७.१)
यथायथा (अव्ययः)
निदेशेनिदेश (७.१)
तवत्वद् (६.१)
शिष्टसंमतेशिष्ट (√शास् + क्त)–संमत (√सम्-मन् + क्त, ७.१)
व्यपैतुव्यपैतु (√व्यप-इ लोट् प्र.पु. एक.)
दुःखंदुःख (१.१)
तवत्वद् (६.१)
मत्कृतेमद्–कृते (अव्ययः)
ऽनघअनघ (८.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
मे था पार्थि धी ते नो
त्सु का मेषु चात्म नःप्रि ये
थानि दे शे शिष्ट सं ते
व्य पैतु दुः खंत्कृ तेऽन