२.३१.७

सुमन्त्रानय मे दारान्ये केचिदिह मामकाः ।
दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ॥

अन्वयः

सुमन्त्र: Sumantra, मामकाः all my (consorts), ये केचित् whosoever, इह are here, मे दारान् my wives, आनय bring them, सर्वैः by all, दारैः with wives, परिवृतः surrounded by, धार्मिकम् virtuous Rama, द्रष्टुम् to see, इच्छामि I want.

Summary

O Sumantra bring all my consorts who are here. In the company of all my wives, I desire to give audience to virtuous Rama.

पदच्छेदः

सुमन्त्रानयसुमन्त्र (८.१)–आनय (√आ-नी लोट् म.पु. )
मेमद् (६.१)
दारान्दार (२.३)
येयद् (१.३)
केचिद्कश्चित् (१.३)
इहइह (अव्ययः)
मामकाःमामक (१.३)
दारैःदार (३.३)
परिवृतःपरिवृत (√परि-वृ + क्त, १.१)
सर्वैर्सर्व (३.३)
द्रष्टुम्द्रष्टुम् (√दृश् + तुमुन्)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
राघवम्राघव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु न्त्रा मे दा रा
न्ये केचिदि मा काः
दा रैःरिवृ तः र्वै
र्द्रष्टु मि च्छामि रा वम्