२.३१.९

एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया ।
प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥

अन्वयः

नृपाज्ञया by king's order, सुमन्त्रेण by Sumantra, एवम् in this way, उक्ताः spoken, सर्वाः all, स्त्रियः ladies, भर्तुः husband's, शासनम् command, आज्ञाय having known, तद्भवनम् to the palace, प्रचक्रमुः went.

Summary

Thus addressed by Sumantra in accordance with the king's order, all the women went to their husband's palace.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्ताःउक्त (√वच् + क्त, १.३)
स्त्रियःस्त्री (१.३)
सर्वाःसर्व (१.३)
सुमन्त्रेणसुमन्त्र (३.१)
नृपाज्ञयानृप–आज्ञा (३.१)
प्रचक्रमुस्प्रचक्रमुः (√प्र-क्रम् लिट् प्र.पु. बहु.)
तद्तद् (२.१)
भवनंभवन (२.१)
भर्तुर्भर्तृ (६.१)
आज्ञायआज्ञाय (√आ-ज्ञा + ल्यप्)
शासनम्शासन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्ताःस्त्रि यः र्वाः
सु न्त्रेनृ पाज्ञ या
प्रक्र मु स्तद्भ नं
र्तु रा ज्ञा शा नम्