२.३२.११

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ।
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते ॥

अन्वयः

कैकेय्याम् when Kaikeyi, मुक्तलज्जायाम् shameless, अतिदारुणम् terribly cruel, वदन्त्याम् speaking, राजा king, दशरथः Dasaratha, आयतलोचनाम् largeeyed woman, वाक्यम् these words, उवाच said.

Summary

King Dasaratha heard the terribly cruel and shameless words of that largeeyed Kaikeyi, and said:

पदच्छेदः

कैकेय्यांकैकेयी (७.१)
मुक्तलज्जायांमुक्त (√मुच् + क्त)–लज्जा (७.१)
वदन्त्याम्वदत् (√वद् + शतृ, ७.१)
अतिदारुणम्अति (अव्ययः)–दारुण (२.१)
राजाराजन् (१.१)
दशरथोदशरथ (१.१)
वाक्यम्वाक्य (२.१)
उवाचायतलोचनाम्उवाच (√वच् लिट् प्र.पु. एक.)–आयत (√आ-यम् + क्त)–लोचन (२.१)
वहन्तंवहत् (√वह् + शतृ, २.१)
किं (२.१)
तुदसितुदसि (√तुद् लट् म.पु. )
मांमद् (२.१)
नियुज्यनियुज्य (√नि-युज् + ल्यप्)
धुरिधुर् (७.१)
माहितेमद् (२.१)–आहित (√आ-धा + क्त, ७.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
कै के य्यां मुक्त ज्जा यां न्त्या
ति दारु णम् रा जा थो वाक्य
मु वा चा लो नाम् न्तं किं
तुसि मांनि युज्यधुरि माहि ते