२.३२.१३

एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।
व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत ॥

अन्वयः

एवम् in this way, उक्तः having been told, राजा king, दशरथः Dasaratha, धिक् इत्येव 'shame' only, अब्रवीत् said, सर्वः all, जनः people, व्रीडितः were ashamed, सा च Kaikeyi, तम् that one, नावबुध्यत did not perceive.

Summary

Hearing the words of Kaikeyi, Dasaratha could say only 'shame'. All the people felt ashamed, but Kaikeyi could not understand this.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तोउक्त (√वच् + क्त, १.१)
धिग्धिक् (अव्ययः)
इत्य्इति (अव्ययः)
एवएव (अव्ययः)
राजाराजन् (१.१)
दशरथोदशरथ (१.१)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
व्रीडितश्व्रीडित (√व्रीड् + क्त, १.१)
(अव्ययः)
जनःजन (१.१)
सर्वःसर्व (१.१)
सातद् (१.१)
(अव्ययः)
तन्तद् (२.१)
नावबुध्यत (अव्ययः)–अवबुध्यत (√अव-बुध् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तोधि गि त्ये
रा जा थोऽब्र वीत्
व्रीडिश्च नः र्वः
सा न्ना बुध्य