२.३२.१४

तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥

अन्वयः

तत्र present there, वृद्धः the aged, नामतः by name, सिद्धार्थो नाम named Siddartha, शुचिः holy, राज्ञः king, बहुमतः favourite, महामात्रः minister, कैकेयीम् to Kaikeyi, इदम् this, अब्रवीत् spoke.

पदच्छेदः

तत्रतत्र (अव्ययः)
वृद्धोवृद्ध (१.१)
महामात्रःमहामात्र (१.१)
सिद्धार्थोसिद्धार्थ (१.१)
नामनाम (अव्ययः)
नामतःनामन् (५.१)
शुचिर्शुचि (१.१)
बहुमतोबहु–मत (√मन् + क्त, १.१)
राज्ञःराजन् (६.१)
कैकेयीम्कैकेयी (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र वृ द्धो हा मा त्रः
सि द्धा र्थो ना ना तः
शु चिर्बहु तो रा ज्ञः
कै के यीमिब्र वीत्