२.३२.१७

तानुवाच ततो राजा किंनिमित्तमिदं भयम् ।
ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥

अन्वयः

ततः then, राजा king, तान् to them, उवाच said, इदं भयम् this fear, किन्निमित्तम् why?, राज्ञा by the king, सम्पृष्टाः having been asked, ताः those, प्रकृतयश्चापि subjects also, वाक्यम् these words, अब्रुवन् said.

Summary

The king then asked them, 'Why this fear?'. And the citizens responded:

पदच्छेदः

तान्तद् (२.३)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
ततोततस् (अव्ययः)
राजाराजन् (१.१)
किंनिमित्तम्किंनिमित्त (१.१)
इदंइदम् (१.१)
भयम्भय (१.१)
ताश्तद् (१.३)
चापि (अव्ययः)–अपि (अव्ययः)
राज्ञाराजन् (३.१)
संपृष्टासंपृष्ट (√सम्-प्रच्छ् + क्त, १.३)
वाक्यंवाक्य (२.१)
प्रकृतयोप्रकृति (१.३)
ऽब्रुवन्अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तानु वा तो रा जा
किंनि मित्तमि दं यम्
ता श्चापि रा ज्ञा सं पृ ष्टा
वा क्यंप्रकृ योऽब्रु वन्